|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.89. अध्यायः 089
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-89-0x(5051)(59427)
सुकल्पिता हैमवता महोत्कटा
रणाभिकामैः कृतिभिः समास्थिताः।
सुवर्णजालैर्वितता बभुर्गजा--
स्तथा यथा खे जलदाः सविद्युतः॥ 8-89-1(59428)
कुणिन्दपुत्रो दशभिर्महायसैः
कृपं ससूताश्वमपीडयद्भृशम्।
ततः शरद्वत्सुतसायकैर्हतः
सहैव नागेन पपात भूतले॥ 8-89-2(59429)
कुणिन्दपुत्रावरजस्तु तोमरै--
र्दिवाकरांशुप्रतिमैरयस्मयैः।
जघान भोजस्य हयानथापतन्
क्षणाद्विशस्ताः कृतवर्मणे हयाः॥ 8-89-3(59430)
अथापरे द्रौणिहता महाद्विपा--
स्त्रयः ससर्वायुधयोधकेतनाः।
निपेतुरुर्व्यां व्यसवो विचेतना--
स्तथा यथा वज्रहता महाचलाः॥ 8-89-4(59431)
कुणिन्दराजावरजादनन्तरः
स्तनान्तरे पत्रिवरैरताडयत्।
तवात्मजं तस्य तवात्मजः शरैः
शितैः शरीरं व्यहनद्द्विपं च तम्॥ 8-89-5(59432)
स नागराजः सह राजसूनुना
पपात रक्तं बहु सर्वतः क्षरन्।
महेन्द्रवज्रप्रहतोऽम्बुदागमे
यथा जलं गेरिकपर्वतस्तथा॥ 8-89-6(59433)
कुणिन्दपुत्रप्रहितोऽपरो द्विपः
क्राथं ससूताश्वरथं व्यपोथयत्।
ततोऽपतत्क्राथसराभिघातितः
सहेश्वरो वज्रहतो यथा गिरिः॥ 8-89-7(59434)
रथी द्विपस्थेन हतोऽपतच्छरैः
क्राथाधिपः पर्वतजेन दुर्जयः।
सवाजिसूतेष्वसनध्वजस्तथा
यथा महावातहतो महाद्रुमः॥ 8-89-8(59435)
वृको द्विपस्थं गिरिराजवासिनं
भृशं शरैर्द्वादशभिः पराभिनत्।
ततो वृकं साश्वरथं महाद्विपो
द्रुतं चतुर्भिरणैर्व्यपोथयत्॥ 8-89-9(59436)
स पोथितो नागरवेण वीर्यवा--
न्पराभिनद्द्वादशभिः शिलीमुखैः।
वृकेण बाणाभिहतोऽपतत्क्षितौ
सवारणो बभ्रुसुतेन सार्धम्॥ 8-89-10(59437)
कुणिन्दराजस्य सुतोऽपरस्तदा
स चापि शूरः सहसा समर्पितः।
पपात बाणैः सुबलस्य सूनुना
विषाणपुच्छापरगात्रपातिना॥ 8-89-11(59438)
गजेन वाहाञ्शकुनेः कुणिन्दजो
निनाय वैवस्वतमन्दिरं रणे।
रथं च संक्षुभ्य ननाद नर्दत--
स्ततोऽस्य गान्धारपतिः शिरोऽहरत्॥ 8-89-12(59439)
ततः कुणिन्देषु गतेषु तेषु
प्रहृष्टरूपास्तव ते महारथाः।
भृशं प्रदरध्मुर्लवणाम्बुसम्भवा--
न्वरांश्च बाणासनपाणयोऽभ्ययुः॥ 8-89-13(59440)
तथाऽभवद्युद्धमतीव दारुणं
पुनः कुरूणां सह पाण्डुसृञ्जयैः।
शरासिशक्त्यृष्टिगदापरश्वथै--
र्नराश्वनागासुहरं भृशाकुलम्॥ 8-89-14(59441)
रथाश्वमातङ्गपदातयस्ततः
परस्परं विप्रहताः क्षितौ पतन्।
यथा सविद्युत्तटितो जलप्रदाः
समुत्थितैर्दिग्भ्य इवोग्रमारुतेः॥ 8-89-15(59442)
ततः शतानीकहता महागजा
हया रथाः पत्तिगणाश्च तावकाः।
सुपर्णवातप्रहता यथोरगा--
स्तथा गता गां विवशा विचूर्णिताः॥ 8-89-16(59443)
ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः
स विन्दपुत्रो नकुलात्मजं स्मयन्।
ततोऽस्य कोपाद्विचकर्त नाकुलिः
शिरः क्षुरेणाम्बुजसन्निभाननम्॥ 8-89-17(59444)
ततः शतानीकमविध्यदायसै--
स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः।
त्रिभिश्च भीमं नकुलं च सप्तभि--
र्जनार्दनं द्वादशभिश्च सायकैः॥ 8-89-18(59445)
तदस्य कर्मातिमनुष्यकर्मणः
समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्।
पराक्रमज्ञास्तु धनञ्जयस्य ये
हुतोऽयमग्नाविति ते तु मेनिरे॥ ॥ 8-89-19(59446)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोननवतितमोऽध्यायः॥ 89 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|